|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.74. अध्यायः 074
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मुचुकुन्दचरितदृष्टान्तीकरणेन क्षत्रस्य ब्रह्माधीनत्वसमर्थनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
`युधिष्ठिर उवाच। 12-74-0x(5524)(67744)
ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह।
पुरोहितप्रभावश्च लक्षणं च पुरोधसः॥ 12-74-1(67745)
इदानीं श्रोतुमिच्छामि ब्रह्मक्षत्रविनिर्णयम्।
ब्रह्मक्षत्रं हि सर्वस्य कारणं जगतः परम्।
योगक्षेमो हि राष्ट्रस्य ताभ्यामायत्त एव च॥' 12-74-2(67746)
भीष्म उवाच। 12-74-3x(5525)
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते।
योगक्षेमो हि राज्ञो हि समायत्तः पुरोहिते॥ 12-74-3(67747)
यत्रादृष्टं भयं ब्रह्म प्रजानां शमयत्युत।
दृष्टं च राजा बाहुभ्यां तद्राज्यं सुखमेधते॥ 12-74-4(67748)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च॥ 12-74-5(67749)
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः।
जिज्ञासमानः स बलमभ्ययादलकाधिपम्॥ 12-74-6(67750)
ततो वैश्रवणो राजा राक्षसानसृजत्तदा।
ते बलान्यवमृद्गन्त मुचुकुन्दस्य नैर्ऋताः॥ 12-74-7(67751)
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः।
गर्हयामास विद्वांसं पुरोहितमरिन्दमः॥ 12-74-8(67752)
तत उग्रं तपस्तप्त्वा वसिष्ठो धर्मवित्तमः।
रक्षांस्युपावधीत्तत्र पन्थानं चाप्यविन्दत॥ 12-74-9(67753)
ततो वैश्रवणो राजा मुचुकुन्दमगर्हयत्।
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत्॥ 12-74-10(67754)
धनद उवाच। 12-74-11x(5526)
बलवन्तस्त्वया पूर्वे राजानः सपुरोहिताः।
न चैवं समवर्तन्त यथा त्वमिव वर्तसे॥ 12-74-11(67755)
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः।
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः॥ 12-74-12(67756)
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि।
किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे॥ 12-74-13(67757)
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम्।
न्यायपूर्वमसंलब्धमसंभ्रान्तमिदं वचः॥ 12-74-14(67758)
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयंभुवा।
पृथग्बलविधानं च तल्लोकं परिपालयेत्॥ 12-74-15(67759)
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम्।
अस्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम्॥ 12-74-16(67760)
ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम्।
तथा च मां प्रवर्तन्तं किं गर्हस्यलकाधिप॥ 12-74-17(67761)
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम्।
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत॥ 12-74-18(67762)
नाच्छिन्दे वाऽप्यनिर्दिष्टमिति जानीहि पार्थिव।
प्रशाधि पृथिवीं कृत्स्नां मद्दत्तामखिलामिमाम्।
[एवमुक्तः प्रत्युवाच मुचुकुन्दो महीपतिः॥] 12-74-19(67763)
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव।
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये॥ 12-74-20(67764)
भीष्म उवाच। 12-74-21x(5527)
ततो वैश्रवणो राजा विस्मयं परमं ययौ।
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमरिन्दमम्॥ 12-74-21(67765)
ततो राजा मुचुकुन्दः सोन्वशासद्वसुंधराम्।
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः॥ 12-74-22(67766)
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते।
स भुङ्क्ते विजितामुवीं यशश्च महदश्नुते॥ 12-74-23(67767)
नित्योदकी ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः।
तयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम्॥ 12-74-24(67768)
यशश्च तेजश्व महीं च कृत्स्नां
प्राप्नोति राजन्विपुलां च कीर्तिम्।
प्रधानधर्मं नृपते नियच्छ
तथा च धर्मस्य चतुर्थमंशम्॥ ॥ 12-74-25(67769)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुःसप्ततितमोऽध्यायः॥ 74॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-74-7 असृजदतिसृष्टवान्। आज्ञापितवानिति यावत्॥ 12-74-11 त्वया त्वत्तः॥ 12-74-25 नियच्छ गृहाणेत्यर्थः।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|